Automatic reading that fixes the systematic errors of the legacy-font conversion. Some errors remain; quotations in records copy the raw text.
अथ हिताहिताध्याय:
इह तावदाद्यं वैद्यं आर्हतमेवेति निश्चीयते। यथा चोक्रं-
आर्हतं वैद्यमाद्यं स्याद्यतस्तत्पूर्वपक्षत:।
हिताहिताय विर्ोयं स्याद्वादस्थितिसाधनम्॥
इह तावद्विताहिताध्याये स्वपक्षस्थापने कर्तुमुद्यत: स्याद्वादवादिनामुपरि पूर्वपक्षमेवमुद्घोष-
यत्याचार्य:। हिताहितानि तु यद्वायो: पथ्यं तत्पित्तस्यापध्यमित्यनेन हेतुना न कचििंद् द्रव्यमेकांततो
हिताहितं वास्तीति कृत्वा केचिदाचार्या ब्रुवंति। तन्न सम्यगिह खलु द्रव्याणि स्वभावतस्संयोगश्चैकांत-
हितान्येकांतहितानि च भवंति। एकान्तहितानि सजातिसात्म्यत्वात् सलिलघृतदुग्धौदनप्रभृतीनि।
एकान्तहितानि तु दहनपचंनमारणादिष्वपि प्रवृत्तान्यग्नक्षिारविषाणि। संयोगतश्चपराणि विषसदृशान्येव
भवंति। हिताहितानि तु यद्वायो: पथ्यं तत्पित्तस्यापथ्यं वायोश्चासिद्धमित्यतस्तु न सम्यगित्येकांतवादिना
प्रतिपादितं तत्तु न सम्यक्कथितमिति चेदेकांतशब्द: सर्वथावाची वर्तते न कथंचिद्वाची। सर्वथाशब्दस्यायमर्थ:।
सर्वत्रा सर्वदा सर्वप्रकारैर्हितानि द्रव्याणि हितान्यैव भवंति चेत्, नवज्वरातिसारकुष्ठ भगंदराति
साराक्षिरोगप्रव्रणादि निपीडितशरीरिणामपि सर्वथात्यंतहितान्येव भवेतीत्येवमिदानीं प्रणीतैर‘तैरप्यातुरैरात्म
हितार्थिभि: सततमुपभोक्र व्यानि स्युस्तथा क्षराग्निशस्त्राविषाणयतिनिपुणवैद्य गणैस्तत्तत्साध्य व्याधिषु
प्रयुक्तानि प्रत्यक्षतस्तत़्ाणादेव प्रवृद्धव्याध्युपशमनं कृत्वातुरमतिसुखिनमाशु विधायात्यंतहितान्येव भवतीत्येवं
सर्वाणि वस्तूनि हितान्येवेति तत्सिद्धं मावति॥ तथत्चोक्रं :- विषमपि विषांतकं भवत्याहेयं नहि स्पृशंतं
मारयति विषं स्वशक्तिमते तदपि मंत्राvगदोपयुक्तं स्थावर२मतेनेतरं मनुजं।
तथा विषोदरचिकित्सायां। परुषविषमविषनिषेवणमप्यौषधमित्युक्तं। यथा:-काकोदन्यश्व
मारकगुंजा-मूलकल्कं दापयेत्। इक्षेुखंडानि वा कृष्णसर्पेण दंशयित्वा भक्षयेत्। मूलजं कंदजं वा विषमासेवेत।
तेनागदो भवतीति विषमपि विषोदरिणा निषेवितमविषात्मकमेवामृतमिति वातिसुखाय कल्प्यते। विषस्य
विषमौषधमिति वचनात्। तथोक्रं चरके विषचिकित्सायां।
जंगमं स्यादधोभागमूधर्वभागं तु मूलजं।
तस्याद्रंष्ट्रिविषं मौलं हंति मौलं च दंतिष्ट्रजम्।
v. मंत्रा नत्रागदापयुक्तं इति क पुस्तके।
२. स्थावरमरनेतरं मनुजा इति क पुस्तके।