Automatic reading that fixes the systematic errors of the legacy-font conversion. Some errors remain; quotations in records copy the raw text.
कल्याणकारके / अथ हिताहिताध्याय:
614
पश्चात्तममेव निश्चीयते। तत्कथं पूर्वापरविरोधदुष्टमिति चेदुच्यते।
वैद्यशास्त्रास्यादावेव पूर्वाचायैर्मूलतंत्राकर्तृभि: परमर्षिभि: पात्रापात्राविवेकर्ौ: कर्तव्याकर्तव्यनिवह-
निश्चित्सेयं योग्यानामेव कर्तव्येति विधिप्रतिषेधात्मकं शास्त्रामुक्तं। द्विजसाधुबांधवामयुपगतजनानां चात्मबांध-
वानामिवात्मभेषजै: प्रतिकतार्व्यम्। एवं साधु भवति। व्याधशाकुनिकपतितपापकर्मकृतां च न प्रतिकर्तव्यम्।
एवं विद्या प्रकाशते, मित्रायशाेर्थधर्मकामाश्चरावंतीत्येवं पूर्वमुक्तं, पश्चान्मांसादिनिषवेणं कथं स्वयमेवाचार्या:
प्रतिपादयंतीति पूर्वापरविरुद्धमेतत्। तस्मादन्यैर‘वा दुश्चरितै: पश्चात्कृतमिति निश्चेतव्यं।
अथवा वैद्यशास्त्रो तावन्मांसोपयोग एव न घटते। कथमिति चेदन्नभेषजरसायनेमयो भिन्नत्वात्।
कथं? ब्रहादिरपि लोकस्याहारस्थित्युत्पत्तिहेतुरित्युक्तत्वात्। न च ब्रहादीनां मांसमाहाराथँ जग्विरित्यन्नक्रमो
युक्तश्च क्षीरपा: क्षीरान्नदा अन्नदाश्चेति तत: परमान्नदा इति वचनात्। तथा महापाठे शिशूनामन्नदानमाहारविधौ
प्रथममषणमासिकं लघवन्नपयसा भोजयेदिति वचनात्। मांसमन्नं न भवत्येव, पयसात्यंतविरोधित्वात्।
तथाचोक्रम्।
मांसमत्स्यगुडमाषमोदकै: कुष्ठमावहति सेवितं पय:।
शाकजांबवसुरासवैश्च तन्मारयत्यबुधमाशु सर्पवत्॥
अथवा अलौकिकमविशिष्टमहृद्यं शास्त्रावर्जितं मांसक्षीरं न सममश्रAीयात्। कोहि नाम नरस्सुखीति।
अपि चैवं ब्रहाोद्यं लोकस्याहारविधानमेवमुक्तं। सर्वप्राणिनामाहारविधानमेवमुक्तं हि।
कुयोनिजानां मधुमद्यमांसकदन्नमन्नं च तथा पर‘षां।
कल्याणकं चक्रधरस्य भोज्यं, स्वर्गेःमृतं भोगमहिस्थितानां॥
पितृसंतर्पणार्थमपि न भवत्येव मांसे। कथं?
सायुज्यमायाति पर‘ण पुंसा योगस्थितास्तेपि तत: प्रबुद्धा:।
केचिद्रिवं दिव्यमनुष्यभावं न तत्रा मांसादिकदन्नभुक्ति:॥ इति॥
तथा मांसं भेषजमपि न मावत्येव, द्रव्यसंग्रहविरानीयाध्याये मांसस्वापाठात्।
अथवा प्रकीर्णकौषधौष्वपि मांसमौषधं न भवत्येव। तत्रा द्विविधमौषधमित्युक्तम् संशमनसंशाेधन
क्रमेण। न तावत्संशाेधनं च भवत्यूधर्वमागाधोभोगोभयतस्संशाेधनशक्त्यभावात्। संशमनमपि मांसं न
भवति, स्पृष्टरसामावात्। स्पृष्टरसं हि द्रव्यं संशमनाय कल्प्यते। यथा मधुर्राललवणा: वातघAा:, मधुरतिक्त
कषाया: पित्तघAा:, कटुतिक्तकषाया: श्लेष्मघना:। अथवा मांसं लवणं नास्ति, लवणसंयोगभक्षणात्।
आम्लरसोपि नास्ति आम्लसंपाचनात्। तथैव संभारसंस्कारार्हत्वात् कटुतिक्तकषायरसाश्च न संभवेत्येव।
तथा मासं मधुरमपि न भवति, मधुरस्य लवणेनात्यंतविरोधित्वात् अथवा महापाठे मांसपाकोप्यभिहित:-