Automatic reading that fixes the systematic errors of the legacy-font conversion. Some errors remain; quotations in records copy the raw text.
कल्याणकारके / अथ हिताहिताध्याय:
613
एवं शांतिकर्म कुर्वन्क्वचिद्भूतवेतालकृत्यादिकं समुत्थापयतीत्येवं वधनिमित्तजातानां रोगाणां
कथं वधजनितं मांसं प्रशमनकरं, तत्समानत्वात्। तस्य कृतकर्मजातानां जंतूनां व्याधीनां च स्वयमतिपाप
निष्ठुरवधहेतुकं मांसं कथं तदुपशमनाथँ योयुज्यते। तथा चरकेप्युक्तम्-
कर्मजस्तु1 भवेज्जांतु:2 कर्मजास्तस्य चामया:।
न ह्यते कर्मणा जन्म व्याधीनां3 पुरुषस्य च॥ इति
तन्मांसं पापजन्यव्याधो: प्रतीकारं न भवत्येवेति निमित्ोनाप्युक्तम्॥
पापजत्वात्रिादोषत्वान्मलधातुनिबंधनात्।
आमयानां सतानत्वान्मांसं न प्रतिकारकम्॥
तथा चरकेःप्युक्तम्।
सर्वदा4 सर्वभावानां सामान्यं वृद्धिकारणम्।
हासहेतुर्विशेषास्तु प्रकृतेरुभयस्य च॥
इत्येवं सामान्यविशेषात्मकविधिप्रतिषेध्युक्तं। तस्ताद्वैद्यशास्त्रामारोग्यानिमित्तमनुष्ठीयते। तच्चारोग्यं
धर्मार्थ-काममोक्षसाधनं भवति। नहि शक्यं रोगवतां धर्मादीनि प्रसाध्यितुमिति। उक्रं हि-
न धमँ चिकीर्षेत् न वित्तं चिकीर्षेत् न भोगान्बुभुक्षेत् न मोक्षे इयासीत्।
अनारोग्ययुक्त: सुधीरोपि मत्र्यश्चतुवर्गसिद्धिस्तथारोग्यशास्त्राम्॥
चतुष्कस्य प्रणाशे नृनाश:। तथा चैवं समधात्वाद्यारोग्यरुचिशक्तिबलानि लक्षणं तस्य साधनमस्य
हितमितफल मस्य चतुष्टयावाप्तिमानेवमेतस्मिन् वैद्यशास्त्रो धर्मार्थमोक्षस धनपर‘ सर्वराभाषितेःनेक
लोकहितकरसर्व-धर्मशास्त्रा प्राणावाये विद्यमानेपि तत्परित्यज्य तत्प्रतिपक्षकाराविरतिकठिन कठोरैर्निष्ठुर-
हृदयैश्च वानरोरगादि-भक्षकविश्वासमित्रा गौतमकाश्यपपुत्रादिपरिव्राजकैरसर्वभक्षिभिरन्यैरपि दुरात्माभिरि-
दानीतनवैद्यशास्त्राणां प्रणेतृभि: पांड्यचरकभ़िुतास प्रभृतिमांसलोलुपैरत्यंतविशुद्धान्नपान विधिविधौषध-
धान्यवैदलकंदमूल-फलपत्राशाकवर्गाधिकार‘ विशुद्धद्रवद्ध्रव्य विधौ च विगत मलकलंकोदक संपूर्ण
महातटाकसेतौ चांडालमातंगप्रभृतिभिर्दुर्जनै: सज्जानप्रवेशनिवारणार्थ गोश्रृंगस्थापन मिव कनिष्ठनिष्ठुर
दुष्टजनैस्सर्वराप्रणीत-प्राणावायमहागमनिर्गतसद्धर्मवैद्यशास्त्रा तस्करैस्तैर्धर्मचिह्ननिगूहनार्थ पूर्वापर
विरुद्धदोषदुष्टतिकुटिलै: पिशिताशनलंपटैश्चटुलतरलमधुमद्यमांसनिषेवणमविशिष्टजनोपदिष्टं कष्टं
v. चरक सूत्रा स्थान अ. २z श्लोक v}
२. मतो
x. रोगाणां इति मुद्रित पुस्तके
4. चरक सूत्रा स्थान अ. 1 श्लोक 44