Automatic reading that fixes the systematic errors of the legacy-font conversion. Some errors remain; quotations in records copy the raw text.
कल्याणकारके / अथ हिताहिताध्याय:
611
दया च सर्वभूतेषु मुदिता व्रतधारिषु।
कारुणयं क्लिश्यमानेषु चोपेक्ष निर्दये शठे॥
इति प्रवचनभाषितत्वादेवमेतस्मिन्वैद्यशास्त्रो बहुजीवबंधनिमित्तमधुमद्यमांसादिकशमलाहार निषेवण-
मशेषदोषप्रकोपनमातिपापहेतुकमखिलव्याधिप्रवृद्धिनिमित्तं पशुपतिवृहस्पतिगौतमा ग्निवेश्यहस्तचारि-
वाद्वलिराजपुत्रा-गाग्र्यभार्गवभारधवजपालकाप्य विशालकौशिकपुत्रावदमर्यनरनारद कुंभदत्तविभांडकहिरणया
क्षकपाराशरकौंडिन्का-थायिनतित्तिरतैतिल्यमांडव्यशि बिशिबाबहुपत्रारिमेदकाश्यपयराबल्कमृगशर्मशाबायन
ब्रम्ह प्रजापत्यश्विनिसुरेन्द्रधन्वतरि-प्रभृतिभिराप्तरैशेषमहामुनिगणैरम्यैरति नदिं्यमभ़यमतिदुस्सहदुर्गति
हेतुरितिदूरादेव निराकृतमिदानीमपि सर्वदा सवैरेव समयिभि: सत्पुरुष्ौरन्यैरति कुशलवैद्यैश्च परित्यक्रं
कथमुपयुज्यते। अथवैतैरपि ब्रहादिभिराप्तैरशेषमुनिगणैश्च तन्मधुमद्यमांसादिकं भ़यते इति चेत् कथं ते
भवंत्याप्ता मुनयश्च। यदि ते न भक्षयंती तिचेत् कथं स्वयमभक्षयंतो दुद्र्दरनरकपतनजनकमतिनिष्करुणमन्येषां
पिशितभक्षणं प्रतिपादयंति इत्यतिमहाश्चर्यमेतत्तथापिपादयन्त्येवेति चेदनाप्ता भवंत्यनागमश्च स्याद्वैद्यं शास्त्रां।
तथा चोक्रम्।
आगमो ह्याप्तवचनमाप्तं दोषक्षये विदु:। क्षीणदोषोःनृतं वाक्यं न ब्रूयाद्रोषसंमावम्॥
तथाचैवमुक्ता ह्याप्तगुणा:।
रानमप्रहतं तस्य वैराग्यं च जगत्पते:।
सदैश्वयँ च धर्मश्च सहसिद्धं चतुष्टयं॥ इति
तथा चैवं सनातनधर्माणामप्युक्तं स्वरूपम्।
अहसिांसत्यमस्तेयं ब्रहाचयँ विमुक्तता।
सनातनस्य धर्मस्य मूलमेते दुरासदा:॥
धर्माचार्येश्चरमते इति चरणेप्युक्तम्।
रजस्तमोमयां निमुक्तास्तपोरानबलेन ये।
येषां त्रिाकालममलरानमव्याहतं सदा॥
कपिलमुनिवाक्यमेतत्।
आप्ता: शिष्टविबुद्धास्ते तेषां वाक्यमसंशयम्।
सत्यं व़यंति ते कस्माौीरुजोःतमसोःनृतम्॥
एवं वैद्यशास्त्रां तु पुनराप्तोपदिष्टमेव आगममिव। अतींद्रियपदार्थविषयत्वात्, वैद्यशास्त्रामदृष्टं
प्रमाणमिति वचनात्। तथा चैवं शास्त्रां प्रमाणं पुरुषप्रमाणात्। तेःपि प्रमाणं प्रवदंत्येतद्। आचार्य आह
पुनद्र्वितीयो धर्मस्तथा निर्धार्यते इति प्रमाणं। तस्माद्वैद्यं नामात्मकर्मकृतमहाव्याधिनिर्मूलकरणप्रायश्चित्त
निमित्तमनुष्ठितं धर्मशास्त्रामेतत्। तथा चैवम्।